|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.304. अध्यायः 304
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति श्रेयःसाधनकलापप्रतिपादकपराशरगीतानुवादसमापनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-304-0x(6461)(77593)
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः।
पराशरं महात्मानं धर्मे परमनिश्चयम्॥ 12-304-1(77594)
जनक उवाच। 12-304-2x(6462)
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति।
क्व गतो न निवर्तेत तन्मे ब्रूहि महामते॥ 12-304-2(77595)
पराशर उवाच। 12-304-3x(6463)
असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा।
चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति॥ 12-304-3(77596)
छित्त्वाऽधर्ममयं पाशं यदा धर्मेऽभिरज्यते।
दत्त्वाऽभयकृतं दानं तदा सिद्धिमवाप्नुते॥ 12-304-4(77597)
यो ददाति सहस्राणि गवामश्वशतानि च।
अभयं सर्वभूतेभ्यः सदा तमभिवर्तते॥ 12-304-5(77598)
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान्।
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि॥ 12-304-6(77599)
नाधर्मः श्लिष्यते प्राज्ञं पयः पुष्करपर्णवत्।
अप्राज्ञमधिकं पापं श्लिष्यते जतुकाष्ठवत्॥ 12-304-7(77600)
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति।
कर्ता खलु यथाकालं ततः समभिपद्यते॥ 12-304-8(77601)
न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः।
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते।
शुभाशुभे प्रसक्तात्मा प्राप्नोति सुमहद्भयम्॥ 12-304-9(77602)
वीतरागो जितक्रोधः सम्यग्भवति यः सदा।
विषये वर्तमानोऽपि न स पापेन युज्यते॥ 12-304-10(77603)
मर्यादायां वर्तमानोऽपि नावसीदति।
पुष्टस्रोत इवासक्तः स्फीतो भवति संचयः॥ 12-304-11(77604)
यथा भानुगतं तेजो मणिः शुद्धः समाधिना।
आदत्ते राजशार्दूल तथा योगः प्रवर्तते॥ 12-304-12(77605)
यथा तिलानामिह पुण्यसंश्रया
त्पृथक्पृथग्याति गुणोऽतिसाम्यताम्।
तथा नराणां भुवि भावितात्मनां
यथाश्रयं सत्वगुणः प्रवर्तते॥ 12-304-13(77606)
जहाति दारान्विविधाश्च संपदः
पदं च यानं विविधाश्च सत्क्रियाः।
त्रिविष्टपे जातमतिर्यदा नर
स्तदाऽस्य बुद्धिर्विषयेषु भिद्यते॥ 12-304-14(77607)
प्रसक्तबुद्धिर्विषयेषु यो नरो
न बुध्यते ह्यात्महितं कथंचन।
स सर्वभावानुगतेन चेतसा
नृपाऽऽमिषेणेव झषो विकृष्यते॥ 12-304-15(77608)
संघातवन्मर्त्यलोकः परस्परमपाश्रितः।
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति॥ 12-304-16(77609)
न धर्मकालः पुरुषस्य निश्चितो
न चापि मृत्युः पुरुषं प्रतीक्षते।
सदा हि धर्मस्य क्रियैव शोभना
तदा नरो मृत्युमुखान्निवर्तते॥ 12-304-17(77610)
यथाऽन्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति।
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम्॥ 12-304-18(77611)
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम्।
अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत्॥ 12-304-19(77612)
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च।
विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः।
परार्थं विस्तराः सर्वे त्यागमांत्महितं विदुः॥ 12-304-20(77613)
यथा मृणालानुगतमाशु मुञ्चति कर्दमम्।
तथाऽऽत्मा पुरुषस्येह मनसा परिमुच्यते॥ 12-304-21(77614)
मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति।
युक्तो यदा स भवति तदा तं पश्यते परम्॥ 12-304-22(77615)
परार्थे वर्तमानस्तु स्वं कार्यं योऽभिमन्यते।
इन्द्रियार्थेषु सक्तः स स्वकार्यात्परिहीयते॥ 12-304-23(77616)
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम्।
प्राप्नोति सुकृतैरात्मा प्राज्ञस्येहेतरस्य च॥ 12-304-24(77617)
मृन्मये भाजने पक्वे यथा वै नश्यति द्रवः।
तथा शरीरं तपसा तप्तं विषयमश्नुते॥ 12-304-25(77618)
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम्।
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति॥ 12-304-26(77619)
नीहारेण हि संवीतः शिश्नोदरपरायणः।
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते॥ 12-304-27(77620)
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम्।
तथा मर्त्यार्णवाज्जन्तोः कर्मविज्ञानतो गतिः॥ 12-304-28(77621)
अहोरात्रमये लोके जरारूपेण संचरन्।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा॥ 12-304-29(77622)
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते।
नाकृतं लभते कश्चित्किंचिदत्र प्रियाप्रियम्॥ 12-304-30(77623)
सयानं यान्तमासीनं प्रवृत्तं विषयेषु च।
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा॥ 12-304-31(77624)
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति।
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे॥ 12-304-32(77625)
यथा भावावसन्ना हि नौर्महाम्भसि तन्तुना।
यथा मनोभियोगाद्वै शरीरं प्रचिकीर्षति॥ 12-304-33(77626)
यथा समुद्रमभितः संश्रिताः सरितोऽपराः।
तथाऽन्याप्रकृतिर्योगादभिसंश्रियते सदा॥ 12-304-34(77627)
स्नेहपाशैर्बहुविधैरासक्तमनसो नराः।
प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत्॥ 12-304-35(77628)
शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः।
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च॥ 12-304-36(77629)
विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः।
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः॥ 12-304-37(77630)
संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः।
भार्या पुत्रश्च दासश्च स्वमर्थमनुयुञ्जते॥ 12-304-38(77631)
न माता न पिता किंचित्कस्यचित्प्रतिपद्यते।
दानपथ्यौदनो जन्तु स्वकर्मफलमश्नुते॥ 12-304-39(77632)
माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा।
अष्टापदपदस्थाने लाक्षामुद्रेव लक्ष्यते॥ 12-304-40(77633)
सर्वाणि कर्माणि पुराकृतानि
शुभाशुभान्यात्मनो यान्ति जन्तोः।
उपस्थितं कर्मफलं विदित्वा
बुद्धिं तथा चोदयतेऽन्तरात्मा॥ 12-304-41(77634)
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति।
न तस्य कश्चिदारम्भः कदाचिदवसीदति॥ 12-304-42(77635)
अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्।
न श्रीः संत्यजते नित्यमादित्यमिव रश्मयः॥ 12-304-43(77636)
आस्तिक्यव्यवसायाभ्यामुपायान्वितया धिया।
य आरभत्यनिन्द्यात्मा न सोऽर्थात्परिसीदति॥ 12-304-44(77637)
सर्वःस्वानि शुभाशुभानि नियतं कर्माणि जन्तुःस्वयं
गर्भात्संप्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम्।
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिना
दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् 12-304-45(77638)
स्वरूपतामात्मकृतं च विस्तरं
कुलान्वयं द्रव्यसमृद्धिसंचयम्।
नरो हि सर्वो भलते यथाकृतं
शुभाशुभेनात्मकृतेन कर्मणा॥ 12-304-46(77639)
भीष्म उवाच। 12-304-47x(6464)
इत्युक्तो जनको राजन्याथातथ्यं मनीषिणा।
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह॥ ॥ 12-304-47(77640)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरधिकत्रिशततमोऽध्यायः॥ 304॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-304-2 श्रेयः श्रेयः साधनम्। क्व गत्वा न निवर्तन्त इति ड. थ. पाठः॥ 12-304-3 ज्ञानं चैव परा गतिरिति ड. थ. पाठः। न प्रणश्येत्संसिद्धो न निवर्तते इति ड. थ. पाठः॥ 12-304-5 स दानमतिवर्तते इति ध. पाठः॥ 12-304-11 यथा नद्यां बद्धः सेतुर्नैव सीदति स्रोतःपुष्टिं करोति एवमसक्तो धर्म एव सेतुर्यस्य सः। मर्यादायां बद्धो नैव सीदति। संचयस्तपावृद्धिश्च स्फीता भवतीत्यर्थः॥ 12-304-13 यथानिलानामिह पुष्पसंचयादिति ध. पाठः॥ 12-304-14 जहाति राजन्विहितेन संपदा सदश्वयानं विविधाश्च शय्याः इति ध. पाठः॥ 12-304-15 आमिषेण बडिशमर्भितेन। झषो मत्स्यः। न विन्दते ह्यात्मपदं कदाचनेति ड. थ. पाठः॥ 12-304-16 संघातवद्देहेन्द्रियादिसमुदायवत्। मर्त्यलोकः स्त्रीपुत्रपश्वादिसमुदायः। अपाश्रित उपकारकः॥ 12-304-19 जन्मनि जन्मनिमित्तम्॥ 12-304-20 विस्तराः वैतानिकान्यग्रिहोत्रादीनि। संक्षेपास्त्यागादयः॥ 12-304-23 स्वकार्यं यो निवर्तते इति थ. ध. पाठः॥ 12-304-25 मृण्मये भाजने बह्नौ यथा वै शुष्यते द्रवमिति ड. थ. पाठः॥ 12-304-41 वान्ति फलं दातुमिति शेषः॥ 12-304-42 व्यपसायमुद्योगम्॥ 12-304-43 अद्वैधमनसं एकाग्रचित्तम्॥ 12-304-45 गर्भात् गर्भप्रवेशमारभ्य। यत् यस्मात्तदुभयं शुभाशुभम्। अपरिहारवान्परिहर्तुमशक्यः। कालेन प्राप्तेन विच्छेदिना जीवननाशकेन सहायेन सृत्युः कर्मान्तिकं दिष्टान्तं विनाशाख्यं प्रापयेत्। दारोः काष्ठस्य चूर्णं अश्मसारविहितं ककचकृतम्। समा सीतोष्णसाम्यवती गतिर्यस्य स समगतिर्वायुः। दारुचूर्णमिव मृत्युर्नरं कालेनान्तं नयतीत्यर्थः। कर्मान्तरं प्रापयेदिति ध. पाठः॥ 12-304-46 स्वरूपतां स्वस्य रूपं हिरण्यं पशवो विवाहा इति श्रुतं रूपमिव रूपं यस्य स्वकुलानुसारि विवाहादिकं तदेव तत्ता ताम्। आत्मकृतं विस्तरं पुत्रसंतत्यादिपौष्कल्यम्। कुलान्वयं सत्कुले जन्म। यथाकृतं कृतमनतिक्रम्य सर्वं प्राक्कर्मवशादेव लभ्यते॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|